शिव षडक्षर स्तोत्रं | Shiva Shadakshara Stotram

 Shiva Shadakshara Stotram

Shiva Shadakshara Stotram In Hindi

!! ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः !
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥

!! नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः !
नरा नमंति देवेशं नकाराय नमो नमः ॥

!! महादेवं महात्मानं महाध्यानं परायणम् !
महापापहरं देवं मकाराय नमो नमः ॥

!! शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् !
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥

!! वाहनं वृषभो यस्य वासुकिः कंठभूषणम् !
वामे शक्तिधरं देवं वकाराय नमो नमः ॥

!! यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः !
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥

!! षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ !
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

Scroll to Top