Ardhanarishwara Stotram | अर्धनारीश्वर स्तोत्र

Ardhanarishwara Stotram

Ardhanarishwara Stotram Lyrics In Hindi

!! चाम्पॆयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥

!! कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥

!! झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हॆमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥

!! विशालनीलॊत्पललॊचनायै विकासिपङ्कॆरुहलॊचनाय ।
समॆक्षणायै विषमॆक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥

!! मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥

!! अम्भॊधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलॆश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥

!! प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदॆकपित्रॆ नमः शिवायै च नमः शिवाय ॥ 7 ॥

!! प्रदीप्तरत्नॊज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥

!! ऎतत्पठॆदष्टकमिष्टदं यॊ भक्त्या स मान्यॊ भुवि दीर्घजीवी ।
प्राप्नॊति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥

Scroll to Top