शिवाष्टकम् | Shivashtakam Lyrics

Shivashtakam Lyrics

Shivashtakam Lyrics In Hindi

!! प्रभुं प्राणनाथंम् विभुं विश्वनाथंम्
जगन्नाथनाथं सदानन्दभाजाम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥

!! गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥

!! मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥

!! वटाधोनिवासं महाट्‍टाट्‍टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥

!! गिरिन्द्रात्मजासङ्गृहीतार्धदेहं
गिरौसंस्थितं सर्वदा पन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्द्यमानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥

!! कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥

!! शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदासच्चरित्रं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥

!! हरं सर्पहारं चिताभूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥

!! स्तवं यः प्रभाते नरश्शूलपाणेः
पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैस्समाराध्य मोक्षं प्रयाति ॥ ९ ॥

Scroll to Top