द्वादश ज्योतिर्लिंग स्तोत्रम् | Dwadash jyotirling stotram

Dwadash jyotirling stotram

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् !
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये !!

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् !
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् !!

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् !
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् !!

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय !
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे !!

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् !
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि !!

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः !
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये !!

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः !
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे !!

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे !
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे !!

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः !
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि !!

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च !
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि !!

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् !
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये !!

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् !
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये !!

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण !
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च !!
॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् !!

Scroll to Top